|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.119. अध्यायः 119
Mahabharata - Udyoga Parva - Chapter Topics
गालवेन गरुडंप्रत्यश्वानां शतद्वयन्यूनताकथनम् ॥ 1 ॥
गरुडेन तस्य दुर्लभत्वकथनपूर्वकं तत्प्रतिनिधितया माधव्या एव दानकथनम् ॥ 2 ॥
विश्वामित्रेण गालवदत्तायां माधव्यां अष्टकाख्यपुत्रमुत्पाद्य तस्याः पुनर्गालवे पुनर्गालवे प्रत्यर्पणम् ॥ 3 ॥ गालवेन पुनर्ययातये माधवीप्रत्यर्पणम् ॥ 4 ॥
Mahabharata - Udyoga Parva - Chapter Text
नारद उवाच। 5-119-0x(3737)(35821)
गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत्।
दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज ॥ 5-119-1(35822)
गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम् ।
चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि ॥ 5-119-2(35823)
सुपर्णस्त्वब्रवीदेनं गालवं वदतां वरः।
प्रयत्नस्ते न कर्तव्यो नैष संपत्स्यते तव ॥ 5-119-3(35824)
पुरा हि कान्यकुब्जे वै गाधेः सत्यवतीं सुताम्।
भार्यार्थे वरयत्कन्यामृचीकस्तेन भाषितः॥ 5-119-4(35825)
एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम् ।
भगवन्दीयताकं मह्यं महस्रमिति गालव ॥ 5-119-5(35826)
ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः।
अश्वतीर्थे हयाँल्लब्ध्वा दत्तवान्पार्थिवाय वै ॥ 5-119-6(35827)
इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु।
तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्ते तैः पार्थिवैस्तदा ॥ 5-119-7(35828)
अपराण्यपि चत्वारि शतानि द्विजसत्तम ।
नीयमानानि संतारे हृतान्यासन्नितस्ततः॥ 5-119-8(35829)
एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित् ।
इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय ॥ 5-119-9(35830)
विश्वामित्राय धर्मात्मन्षङ्भिरश्वशतैः सह।
ततोऽसि गतसंमोहः कृतकृत्यो द्विजोत्तम ॥ 5-119-10(35831)
गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः ।
आदायाश्वांश्च कन्यां च विश्वामित्रपुपागमत् ॥ 5-119-11(35832)
अश्वानां काङ्क्षितार्थानां षडिमानि शतानि वै ।
शतद्वयेन कन्येयं भवता प्रतिगृह्यताम् ॥ 5-119-12(35833)
अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः ।
चतुर्थं जनयत्वेकं भवानपि नरोत्तमम् ॥ 5-119-13(35834)
पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते।
भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम् ॥ 5-119-14(35835)
विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा।
कन्यां च तां वरारोहामिदमित्यब्रवीद्वचः ॥ 5-119-15(35836)
किमियं पूर्वमेवेह न दत्ता मम गालव।
पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः ॥ 5-119-16(35837)
प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै ।
अश्वाश्चाश्रममासाद्य चरन्तु मम सर्वशः ॥ 5-119-17(35838)
नारद उवाच। 5-119-18x(3738)
स तया रममाणोऽथ विश्वामित्रो महाद्युतिः ।
आत्मजं जनयामास माधवीपुत्रमष्टकम् ॥ 5-119-18(35839)
जातमात्रं सुतं तं च विश्वामित्रो महामुनिः ।
संयोज्यार्थैस्तथा धर्मैरश्वैस्तैः समयोजयत् ॥ 5-119-19(35840)
अथाष्टकः पुरं प्रायात्तदा सोमपुरप्रभम् ।
निर्यात्य कन्यां शिष्याय कौशिकोपि वनं ययौ ॥ 5-119-20(35841)
गालवोपि सुपर्णेन सह निर्यात्य दक्षिणाम्।
मनसाऽतिप्रतीतेन कन्यामिदमुवाच ह ॥ 5-119-21(35842)
जातो दानपतिः पुत्रस्त्वया शूरस्तथाऽपरः।
सत्यधर्मरतश्चान्यो यज्वा चापि तथाऽपरः ॥ 5-119-22(35843)
तदागच्छ वरारोहे तारितस्ते पिता सुतैः ।
चत्वारश्चैव राजानस्तथा चाहं सुमध्यमे ॥ 5-119-23(35844)
नारद उवाच। 5-119-24x(3739)
गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम् ।
पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह ॥ ॥ 5-119-24(35845)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवाद्यनपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-119-8 संतारे मार्गे ॥ 5-119-18 अष्टकं तन्नामकम् ॥ 5-119-20 निर्यात्य प्रत्यर्प्य । शिष्याय गालवाय ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|